|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.232. अध्यायः 232
Mahabharata - Adi Parva - Chapter Topics
सुन्दोपसुन्दलमीपे तिलोत्तमाया आगमनम्॥ 1 ॥
तस्यां सकामयोस्तयोः परस्परं गदाप्रहारेण मरणम्॥ 2 ॥
तिलोत्तमाया ब्रह्मणा वरदानम्॥ 3 ॥
नारदोक्तामिमां कथां श्रुतवद्भिः पाण्डवैः तत्समक्षं द्रौपदीविषये समयकरणम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
नारद उवाच। 1-232-0x(1262)(10069)
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ।
कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः॥ 1-232-1(10070)
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्।
आदाय सर्वरत्नानि परां तुष्टिमुपागतौ॥ 1-232-2(10071)
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन॥
निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव॥ 1-232-3(10072)
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः।
पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः॥ 1-232-4(10073)
अन्तःपुरवनोद्याने पर्वतेषु वनेषु च।
यथेप्सितेषु देशेषु विजह्रातेऽमराविव॥ 1-232-5(10074)
ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले।
पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः॥ 1-232-6(10075)
दिव्येषु सर्वकामेषु समानीतेषु तावुभौ।
वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः॥ 1-232-7(10076)
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः।
गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे॥ 1-232-8(10077)
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती।
वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा॥ 1-232-9(10078)
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती।
शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ॥ 1-232-10(10079)
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ।
दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः॥ 1-232-11(10080)
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता।
उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्॥ 1-232-12(10081)
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना।
उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्॥ 1-232-13(10082)
वरप्रदानमत्तौ तावौरसेन बलेन च।
धनरत्नमदाभ्यां च सुरापानमदेन च॥ 1-232-14(10083)
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ।
मदकामसमाविष्टौ परस्परमथोचतुः॥ 1-232-15(10084)
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत।
मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत॥ 1-232-16(10085)
नैषा तव ममैषेति ततस्तौ मन्युराविशत्।
तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ॥ 1-232-17(10086)
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा।
प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ॥ 1-232-18(10087)
अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः।
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले॥ 1-232-19(10088)
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ।
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा॥ 1-232-20(10089)
पातालमगमत्सर्वो विषादभयकम्पितः।
ततः पितामहस्तत्र सहदेवैर्महर्षिभिः॥ 1-232-21(10090)
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्।
वरेण च्छन्दयामास भगवान्प्रपितामहः॥ 1-232-22(10091)
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः।
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि॥ 1-232-23(10092)
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन।
एवं तस्यै वरं दत्वा सर्वलोकपितामहः॥ 1-232-24(10093)
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः।
एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ॥ 1-232-25(10094)
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः।
तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः॥ 1-232-26(10095)
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते।
तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ॥ 1-232-27(10096)
वैशम्पायन उवाच। 1-232-28x(1263)
एवमुक्ता महात्मानो नारदेन महर्षिणा।
समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः।
समक्षं तस्य देवर्षेर्नारदस्यामितौजसः॥ 1-232-28(10097)
`एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा'
द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत्।
स नो द्वादश मासानि ब्रह्मचारी वने वसेत्॥ 1-232-29(10098)
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः।
नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः॥ 1-232-30(10099)
एवं तैः समयः पूर्वं कृतो नारदचोदितैः।
न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत॥ 1-232-31(10100)
`अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः।
एतद्विस्तरशः सर्वमाख्यातं ते नराधिप॥ 1-232-32(10101)
काले च तस्मिन्संपन्ने यथावज्जनमेजय॥' ॥ 1-232-33(10102)
इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वात्रिंशदधिकद्विशततमोऽध्यायः॥ 232 ॥ ॥ समाप्तं च विदुरागमनराज्यलाभपर्व ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-232-24 तेजसाऽर्कवत्परदृष्ट्यभिभावकत्वात्सुदृष्टां सम्यग्दृष्टां न करिष्यति कश्चित्॥ द्वात्रिंशदधिकद्विशततमोऽध्यायः॥ 232 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|